|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.81. अध्यायः 081
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कृष्णनारदसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-81-0x(5547)(67945)
एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले।
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते॥ 12-81-1(67946)
भीष्म उवाच। 12-81-2x(5548)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
संवादं वासुदेवस्य महर्षेर्नारदस्य च॥ 12-81-2(67947)
वासुदेव उवाच। 12-81-3x(5549)
नासुहृत्परर्म मन्त्रं नारदार्हति वेदितुम्।
अपण्डितो वाऽपि सुहृत्पण्डितो वाप्यनात्मवान्॥ 12-81-3(67948)
स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद।
कृत्स्नां बुद्धिं च ते प्रेक्ष्य संपृच्छे त्रिदिवङ्गम॥ 12-81-4(67949)
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम्।
अर्धंभोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे॥ 12-81-5(67950)
अरणीमग्निकामो वा मथ्नाति दहृयं मम।
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा॥ 12-81-6(67951)
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे।
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद॥ 12-81-7(67952)
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः।
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः॥ 12-81-8(67953)
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत्।
द्वयोरेनं प्रचरतोर्वृणोम्येकरतं न च॥ 12-81-9(67954)
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः।
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः॥ 12-81-10(67955)
सोऽहं कित्नवमातेव द्वयोरपि महामुने।
नैकस्य जयमाशंसे द्वितीयस्य पराजयम्॥ 12-81-11(67956)
ममैवं क्लिश्यमानस्य नारदोभयदर्शनात्।
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा॥ 12-81-12(67957)
नारद उवाच। 12-81-13x(5550)
आपदो द्विविधाः कृष्ण बाह्याश्चाम्यन्तराश्च ह।
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः॥ 12-81-13(67958)
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा।
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयः॥ 12-81-14(67959)
अर्थहेतोर्हि कामाद्वा वीरबीभत्सयाऽपि वा।
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्॥ 12-81-15(67960)
कृतमूलमिदानीं तद्राजशब्दसहायवत्।
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम्॥ 12-81-16(67961)
बभ्रूग्रसेनतो राज्यं नाप्नुं शक्यं कथंचन।
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः॥ 12-81-17(67962)
तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम्।
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत्॥ 12-81-18(67963)
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा।
जिह्वामुद्धर सर्वेषां परिमृदज्यानुमृज्य च॥ 12-81-19(67964)
वासुदेव उवाच। 12-81-20x(5551)
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्।
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च॥ 12-81-20(67965)
नारद उवाच। 12-81-21x(5552)
शक्त्याऽन्नदानं सततं तितिक्षाऽऽर्जवमार्दवम्।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्॥ 12-81-21(67966)
ज्ञातीनां वक्तुकामानां कटुकानि लधूनि च।
गिरा त्वं हृदयं वाचं शमयस्य मनांसि च॥ 12-81-22(67967)
नामहापुरुषः कश्चिन्नानात्मा नासहायवान्।
महतीं धुरमादाय समुद्यम्योरसा वहेत्॥ 12-81-23(67968)
सर्व एव गुरुं भारमनङ्वान्वहते समे।
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम्॥ 12-81-24(67969)
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव।
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु॥ 12-81-25(67970)
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्।
नान्यत्र धनसन्त्यागाद्गुणः प्राज्ञेऽवतिष्ठते॥ 12-81-26(67971)
धन्यं यशस्यमायुष्वं स्वपक्षोद्भावनं सदा।
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु॥ 12-81-27(67972)
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो।
षाङ्गुण्यस्य विधानेन यात्रा यानविधौ तथा॥ 12-81-28(67973)
यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः।
त्वय्यायत्ता महाबाहो लोका लोकेश्वराश्च ये॥ 12-81-29(67974)
उपासन्ते हि त्वद्बुद्धिमृषयश्चापि माधव।
त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम्॥ 12-81-30(67975)
त्वामासाद्य यदुश्रेष्ठमेधन्ते वादवाः सुखम्॥ ॥ 12-81-31(67976)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकाशीतितमोऽध्यायः॥ 81॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-81-1 अग्राह्यके वशीकर्तुमशक्ये॥ 12-81-6 वाशब्द इवार्थः॥ 12-81-9 ते यस्य पक्षे न स्युः स नस्यान्नश्येदेव। यस्य पक्षे ते स्युस्तत् तस्मात् कृत्स्नं फलं प्राप्नोतीति शेषः॥ 12-81-11 कितवमातेव कितवयोर्द्यूतकारिणोरेका मातेव॥ 12-81-13 अन्यतः बाह्याः आपदः स्वकृताः ज्ञातिकृताः अन्तरा आपदः॥ 12-81-14 एते संकर्षणादयः। तदन्वथा अक्रूरान्वयाः॥ 12-81-15 तत्र हेतुरर्थेति। तत्स्नेहप्रभवा इयं तव आपदिति सार्धः। स्वकर्मजेत्युक्तं तद्विवृणोति आत्मनेति सार्धेन। अन्यत्र आहुके॥ 12-81-16 ज्ञातिशब्दं सहायवन् इति झ. पाठः। तत्र तत् ऐश्वर्यं कृतमूलं यतो ज्ञातिशब्दं ज्ञातित्वादनुच्छेदनीयमित्यर्थः॥ 12-81-18 तच्च राज्यस्य पुनरादानं च॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|